|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.84. अध्यायः 084
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णप्रयाणे कुरुपराजयसूचकदुर्निमित्तसमुत्पत्तिः ॥ 1 ॥ श्रीकृष्णस्य शुभशकुनसमुदयः ॥ 2 ॥ मार्गे तत्रतत्र विपरगणाद्यश्वर्चितस्य कृष्णस्य सायाह्ने वृकस्थलाभिगमनम् ॥ 3 ॥ तत्रत्यद्विजव्रजपूजितस्य कृष्णस्य तद्गृहगमनागमनपूर्वकं तान्भोजयित्वा तद्रजन्यां वृकस्थले सुखसंवासः ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
जनमेजय उवाच। 5-84-0x(3643)(34761)
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥ 5-84-1(34762)
वैशम्पायन उवाच। 5-84-2x(3644)
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः।
तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च ॥ 5-84-2(34763)
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥ 5-84-3(34764)
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरिता दिशः सर्वा न प्राज्ञायत किंचन ॥ 5-84-4(34765)
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥ 5-84-5(34766)
तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा।
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ॥ 5-84-6(34767)
प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत ।
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥ 5-84-7(34768)
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ॥ 5-84-8(34769)
यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥ 5-84-9(34770)
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥ 5-84-10(34771)
संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ॥ 5-84-11(34772)
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥ 5-84-12(34773)
स शालिभवनं रम्यं सर्वसस्यसमाचितम्।
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ॥ 5-84-13(34774)
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान्।
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ॥ 5-84-14(34775)
नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ॥ 5-84-15(34776)
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः।
यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥ 5-84-16(34777)
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ॥ 5-84-17(34778)
वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ॥ 5-84-18(34779)
` ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ॥ 5-84-19(34780)
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि ररावन्ति समार्जयन् ॥' 5-84-20(34781)
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥ 5-84-21(34782)
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः।
मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत् ॥ 5-84-22(34783)
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥ 5-84-23(34784)
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम्।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥ 5-84-24(34785)
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्।
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ॥ 5-84-25(34786)
तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ॥ 5-84-26(34787)
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ ॥ 5-84-27(34788)
इति श्रीमन्महाभारते उद्योगपर्वमि भगवद्यानपर्वणि चतुरशीतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-84-2 दैवानि कशुनानि। औत्पातिकानि अशकुनानि ॥ 5-84-7 खेशरीरं छायापुरुषशरीरम् ॥ 5-84-13 भवन्ति अस्मिन्निति भवने क्षेत्रम् ॥ 5-84-16 उपप्लाव्यात् ग्रामात् ॥ 5-84-

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|